|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.2. अध्यायः 002
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण नागराणां धृतराष्ट्रानुशासनपूर्वकं सहभ्रातृभिरप्रमादेन तत्परितोषणम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
एवं सम्पूजितो राजा पाण्डवैरंबिकासुतः।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः॥ 16-2-1(97243)
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत॥ 16-2-2(97244)
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः।
मया चैव भवद्भिश्च मान्य एष नराधिपः॥ 16-2-3(97245)
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः॥ 16-2-4(97246)
परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम्॥ 16-2-5(97247)
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः॥ 16-2-6(97248)
धर्मिराजश्च भीमश्च सव्यसाची यमावपि।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया॥ 16-2-7(97249)
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते॥ 16-2-8(97250)
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान्॥ 16-2-9(97251)
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने॥ 16-2-10(97252)
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान्।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत॥ 16-2-11(97253)
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा॥ 16-2-12(97254)
एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम्॥ 16-2-13(97255)
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने॥ 16-2-14(97256)
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः॥ 16-2-15(97257)
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव॥ 16-2-16(97258)
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा॥ 16-2-17(97259)
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी॥ 16-2-18(97260)
तं स राजा महाराज पाण्डवानां धुरंधरः।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा॥ 16-2-19(97261)
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्॥ 16-2-20(97262)
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्॥ 16-2-21(97263)
ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम्।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः॥ 16-2-22(97264)
न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा।
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः। 16-2-23(97265)
ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा॥ 16-2-24(97266)
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम्।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत॥ 16-2-25(97267)
यः कश्चिदपि यत्किञ्चित्प्रमादादंबिकासुते।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः॥ 16-2-26(97268)
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः॥ 16-2-27(97269)
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः॥ 16-2-28(97270)
अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम्।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः॥ 16-2-29(97271)
राजानमनुवर्तन्त धर्मपुत्रममित्रहा।
अन्ववर्तत संक्रुद्धो हृदयेन पराङ्मुखः॥ ॥ 16-2-30(97272)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वितीयोऽध्यायः॥। 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-2-4 निरस्यश्च भवेन्नर इति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|